वांछित मन्त्र चुनें

इ॒मानि॑ वां भाग॒धेया॑नि सिस्रत॒ इन्द्रा॑वरुणा॒ प्र म॒हे सु॒तेषु॑ वाम् । य॒ज्ञेय॑ज्ञे ह॒ सव॑ना भुर॒ण्यथो॒ यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑थः ॥

अंग्रेज़ी लिप्यंतरण

imāni vām bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām | yajñe-yajñe ha savanā bhuraṇyatho yat sunvate yajamānāya śikṣathaḥ ||

पद पाठ

इ॒मानि॑ । वा॒म् । भा॒ग॒ऽधेया॑नि । सि॒स्र॒ते॒ । इन्द्रा॑वरुणा । प्र । म॒हे । सु॒तेषु॑ । वा॒म् । य॒ज्ञेऽय॑ज्ञे । ह॒ । सव॑ना । भु॒र॒ण्यथः॑ । यत् । सु॒न्व॒ते । यज॑मानाय । शिक्ष॑थः ॥ ८.५९.१

ऋग्वेद » मण्डल:8» सूक्त:59» मन्त्र:1 | अष्टक:6» अध्याय:4» वर्ग:30» मन्त्र:1 | मण्डल:8» अनुवाक:6» मन्त्र:1